________________
[ ५८६]
योगतिर्यग्वा किं न गच्छेच्च, इति शङ्का प्रजायते । उत्तरं योगन्यायेन, अत्रैव परिदर्श्यते ॥२१२॥ गतिसहायकं तत्त्वं, धर्मास्तिकायनामकम् । स्थितिसहायकं चैवाऽधर्मास्तिकायरूपकम् ॥२१३॥ तत ऊर्ध्वं च तत्त्वस्य, तदद्वयस्य वियोगतः। न गच्छतीति मन्तव्यं, प्रमाणस्य प्रदर्शनात् ॥२१४ तत्त्वद्वयस्य सिद्धिस्तु, द्रव्यप्रदीपशास्त्रके । युक्तिप्रमाणरूपेण दर्शिता तत्र लोक्यताम् ॥२१॥ अधोगमनहेतुकं, गौरवं नैव विद्यते । अधो याति ततो नैव, काययोगवियोगतः ॥२१६॥ योगप्रयोगताऽभावे न तिर्यगपि गच्छति । अतः पूर्वोक्तशङ्कायाः अवसरो न विद्यते ॥२१॥ मृदष्टलेपलिप्त च, यथाऽलाबुजले क्षिपेत् । यावत्तल्लेपसद्भावः, तावज्जले निमज्जति ॥२१॥ मृल्लेपक्षालनेनैव, शुद्धालाबु यदा भवेत् । तदा जलस्य चोपरिष्टादागच्छति तुम्बकम् ॥२१६ नोवं याति जलाभावात, लेपाभावादधस्ततः । न यातीति च मन्तव्यं युक्तिप्रमाणयोगतः ॥२२०॥