________________
योग
[५८४] कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन्भवत्यनाहारको नियमात् ॥ परित्यक्तसमुद्धातः, योगत्रिकं च कारणात् । व्यापर्त्यपि यथाऽनुत्तरसुरः पृष्ठो मानसम् ॥१६॥ योगसत्यं च ह्यसत्याऽमृषां वा प्रयुक्त खलु । एवमामन्त्रणादौ च, वाग्योगमपि नेतरौ ॥१९६॥ द्वौ भेदौ च द्वयोरपि, औदारिकं शरीरकम् । काययोगत्वख्यापकं, फलकप्रतिदानके ॥१६॥ अन्तर्मुहूर्त्तकाले च, योगरोधश्च योगिना। क्रियते तत्स्वरूपं च अनुक्रमेण दर्श्यते ॥१९८॥ वेधा योगोऽपि ज्ञातव्यः सूक्ष्मो बादररूपकः । केवलोत्पत्तिकादुत्तरकालश्चजघन्यतः ॥१६॥ अन्तर्मुहूर्तमानं च, देशोनोत्कृष्टतस्तथा । पूर्वकोटिप्रमाणं च, तावत्कालं विहारवान् ॥२०॥ अन्तर्मुहूर्तमानं हि, यदायुरवशिष्यते । तदा सयोगिसर्वज्ञः, बादरकाययोगतः ॥२०१॥ प्रथमं बादरो चैव, वामानसयोगको । निरुणद्धि ततः पश्चात्सूक्ष्मकायस्य योगताम् ॥२०२