________________
[५८२]
योगतथा चोक्तम्विश्वतश्चक्षुरुत विश्वतो मुखं विश्वतो बाहुरुतविश्वतः पात् इत्यादि ॥१७॥ अज्ञजनोपरिष्टाच्च दयाभावो वितन्यते । चतुर्थसमये चैव, लोकान्तव्यापिता भवेद् ॥१८॥ सर्वकालिकता नैव, आत्मविभुत्वकं वदेत् । अतो ज्ञानं परित्यज्य, सम्यक्तया विचार्यताम् १८१ युक्तिप्रमाणदृष्ट्या च विभुत्वं नैव सिध्यति । अतो मिथ्यात्वभावश्च महाशयेन त्यज्यताम् १८२ पञ्चमसमये पूर्वक्रमेण प्रतिलोमकम् । मन्थान्तराणि जीवस्य, सकर्मकप्रदेशकम् ॥१३॥ सङ्कोचयति सर्वज्ञः, मन्थानस्योपसंहृतिः । घनतरस्य सङ्कोचनात् क्रियते क्षणषष्ठके ॥१८४॥ सप्तमे समये चैव, संह्रियते कपाटकम् । दण्डात्मनि च सङ्कोचात् तादृशी जायते स्थिति ॥ अष्टमें समये दण्डं, उपसंहृत्य देहगः । भवति सर्वज्ञो देवः, कर्त्तव्यकरणेन च ॥१८६॥ समुद्धातस्य कालेषु, मनोवाग्योगव्यापृतिः ।