SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ - प्रदोप [ ५८१ ] तस्य विधिक्रमश्चैव, स्वबोधार्थं निगद्यते । यदि च तत्र त्रुटि: स्यात्प्रेषणीया समीपके ॥ १७० ॥ प्रथमे समये एव, स्वदेहतुल्यमानकम् । ऊर्ध्वमधश्च ह्यायतं, लोकान्तगामिनं तथा ॥ १७१ ॥ जीवप्रदेशसङ्घातं दण्डाकारं च केवली । करोतीति च विज्ञेयं, द्वितीयसमये खलु ॥ १७२॥ तदेव दण्डकं चैव, पूर्वापर दिशाद्वये । प्रसारणाद् च पार्वाद्धि कपाटवत्कपाटकम् ॥१७३॥ लोकान्तगं करोत्येव, तृतीये समये किल । तदेवं च कपाटं वै, दक्षिणोत्तर दिग्द्वये ॥ १७४॥ प्रसारणाच्च मन्थानमिव लोकान्तगामिनम् । मन्थानं च करोत्येव, एवं च लोगभागकम् ॥ १७५ बहुपूरितकं प्रायो, जीवप्रदेशकैस्तथा । चतुर्थसमये चैव, मन्थान्तराणि पूरयेद् ॥ १७६॥ लोक निष्कुटकैः सार्क, तान्येव पूरयेत्खलु । ततश्च सकलो लोकः जीवप्रदेशपूरितः ॥ १७७॥ लोकपूरणगीतेन, आत्मविभुत्वं चापरैः । स्वीकृतमिति विज्ञेयं स्तोके च सर्वकालिकम् १७८
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy