________________
-प्रदोप
५७५] अयोगिनां चतुर्थ स्यादितिध्यानं व्यवस्थितम् । कार्ययोगस्वरूपं च, प्रोच्यते लेशमात्रतः ॥११६॥ पञ्चशरीरयुक्तस्य, जीवस्य वीर्यवस्तुनः । परिणति विशेषत्वं, काययोगो निगद्यते ॥१२०॥ अन्ययोगस्वरूपं तु, जैनतत्त्वप्रदीपके । ग्रंथे च दर्शितं ज्ञेयं, वक्ष्ये तत्त्वप्रदीपके ॥१२१॥ ननु च शुक्लध्यानस्योपरिभेदद्वये मनः । केवलिषु च सर्वथा, विद्यते न कदाचन ॥१२२॥ तथा च मनसोऽभावे, कथं मानसस्थैर्यकम् । ध्यानं च विद्यते तत्र, इति शङ्का प्रजायते ॥१२३ छद्मस्थस्य यथा स्थैर्य, मानसं ध्यानमुच्यते । तथा केवलिनश्चैव, निश्चलयोगयोगकम् ॥१२४॥ योगत्वाव्यभिचारेण, ध्यानशब्दाभिधायकम् । ज्ञातव्यं ज्ञानिना चैव, इति सर्व व्यवस्थितम् ॥१२५ तथापितूर्यशुक्ले च, निरुद्धकाययोगिनि । काययोगविहीने च, ध्याने चातिप्रसङ्गता ॥१२६॥ तत्र ध्यानं कथं वाच्यं, शंका च महती हृदि । समाधानं च तस्याश्च, कियते योगशास्त्रतः ॥१२७