SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ wwwwwwww [ ५७६] योगयथा कुलालचक्र हि, भ्रमिनिमित्तदण्डके। अभावेऽपि च पूर्वाभ्यासाद्भमति विलोक्यते ॥१२८ तथा च मानसादीनां, योगानां चैव सर्वथा । उपरमेऽपि योगीनां, ध्यानं भवति निश्चलम् ॥१२६ यद्यपि शब्दतो योगाः न सन्ति चेति मन्यते । तथापि सार्वरूपस्य, ईशस्य परमात्मनः ॥१३०॥ उपयोगत्वरूपस्य, भावमानसयोगतः । ध्यानमयोगिनां चैव, मन्तव्यमिति निश्चितम् ॥ यद्वा ध्यानस्य कार्यस्य, निर्जरणस्य हेतुतः। ध्यानं स्यादिति मन्तव्यं, तदृष्टान्तेन दयते ॥ यथा च पुत्रकार्यस्य, कर्तव्येऽपुत्रकः खलु । पुत्र इति निगद्येत, तथैवात्र विलोक्यताम् ॥१३३॥ भवति चास्य सास्य, भवोपग्राहिकर्मणाम् । निर्जरारूपकार्य तदन्यच प्रतिपाद्यते ॥१३४॥ शब्दार्थस्य बहुत्वेन, अथवा ध्यानता भवेत् । यथा च हरिशब्दस्य, अर्कमर्कटकादयः ॥१३॥ बहवोऽर्थाश्च विद्यन्ते, एवं ध्यानपदस्य च । ध्य धातुश्च चिन्तायां, ध्य काययोगरोधके ॥१३६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy