________________
~
~
~
-
-
[५७४]
योगमनसः संक्रमादेव, तत्र स्थैर्य कथं भवेत् । इति संशयसम्प्राप्ते, उत्तरं प्रविधीयते ॥११०॥ एकद्रव्यादिवस्तुष, मनसः स्थैर्यसम्भवात् । अतो हि ध्यानता तत्र, अविरुद्धा निगद्यते ॥११॥ पूर्वगतानुसारेण, एकपर्यायताश्रितम् । एकत्वसवितर्काख्यं, द्वितीयं शक्लमुच्यते ॥११२ अर्थव्यानयोगेषु, संक्रमो यत्र नो भवेत् । निष्प्रकम्पनिवातस्थप्रदीपमिवमानसम् ॥११३॥ यत्र ध्याने भवेत्तद्धि, द्वितीयं स्पष्टरूपकम् । मोक्षगमनकाले च, मनोवाग्योगरोधिते ॥११४॥ बादरे काययोगे च, सार्वेण रोधिते सति । मूक्ष्मोच्छ्वासनिश्वासादि, कायक्रिया च यंत्रः वै ॥ अनिवर्ति तथा चैव, शुक्लध्यानं तृतीयकम् । चतुर्थ शुक्लध्यानस्य, स्वरूपं प्रतिपाद्यते ॥११६॥ शैलेशीगत सार्वस्य, शैलवन्निश्चलस्य च । उत्सन्नक्रियतारूपं, अप्रतिपातितूर्यकम् ॥११७॥ त्रियोगेषु च प्राथम्यं, एकयोगे द्वितीयकम् । शरीरयोगिनां चैव, तृतीयं परिकोर्तितम् ॥११८॥