________________
-प्रदीप
[५७३] चतुर्ष शुक्लध्यानेषु , मोक्षहेतुत्वमुच्यते । आभ्यन्तरतपोरूपं, तथा संवररूपकम् ॥१०१॥ नव्यकर्मनिरोधेन, पुरातनस्य निर्जरात् । शुद्धात्मत्वस्य सम्प्राप्तिः, सैव मोक्षो निगद्यते ॥१०२ जैनतत्त्वप्रदीपाऽऽख्यस्वीयग्रन्थानुसारतः। विचारः शुक्लध्यानस्य, कृतश्च मन्दबुद्धिना ॥१०३ योगशास्त्रानुसारेण, विचारः प्रविधीयते । योगमूर्तित्वरूपाणां, हैमयोगानुवादतः ॥१०४॥ पूज्येन हेमचन्द्रेण, प्रभुणा नैकदृष्टितः। यथा विचारता दृष्टा, तथा चात्र प्रदर्श्यते ॥१०॥ एकस्मिन्परमाण्वादौ, द्रव्ये पर्यायवस्तूनाम् । उत्पादस्थितिभङ्गानां, मूर्त्तत्वामूर्ततादीनाम् ॥१०६ नेकविधनयेनैव, द्रव्यपर्यायतार्थिकैः । यदनुचिन्तनं शास्त्राद् दृष्टिवादानुसारतः ॥१०७॥ तदाद्यशुक्लध्यानंतदर्थव्यञ्जनवस्तुषु । तथा योगन्तरेष्वेव, संक्रमयुक्तमाद्यकम् ॥१०॥ विज्ञेयं ध्यानवित्सर्वमत्रैव प्रथमं हि तत् । अर्थव्यञ्जनभावेषु, तथा योगान्तरेषु च ॥१०॥