________________
योग
[५७२] अन्यत्र धर्मध्यानं च, तद् द्वयगुणस्थानके । इत्याद्यद्विशुक्लानां, विचारः परिकर्तितः ॥१२॥ तृतीयशुक्लध्यानस्य, चतुर्थस्य तथैव च । केवलिनोऽधिकारिणः, तत्र नैव विवादता ॥३॥ त्रयोदशे गुणे चैव, तथा चतुर्दशे खलु। केवलिनं विना नैव, विद्यन्ते चान्ययोगिनः ॥१४॥ पर्वधरेषु चाद्यौ द्वौ, प्रकारौ सर्वदा मतौ । केवलिघु हि चान्त्यौ द्वौ प्रकारौ सर्वथा मतौ ॥६५ योगदृष्ट्या विचारे च, कर्तव्ये योगधारिषु । त्रिकयोगवतीव्यक्तिरधिकारवती मता ॥६६॥ कायादित्रिकयोगानां, योगत्रिकत्वधारिणाम् । प्रथमशुक्लध्यानस्य, स्वामिनस्ते हि सम्मताः ॥१७॥ त्रिकयोगेषु मध्ये च, कस्यचिद्योगधारिणः । योगिनो हि द्वितीयस्य, शुक्लस्य चाधिकारिणः ॥६८ केवलकाययोगत्वधारी ध्यानतृतीयके । सर्वथा योगहीनाश्च, चतुर्थशुक्लधारिणः ॥६६॥ सर्वथा संवरश्चैव, चतुर्थशुबलध्यानके ॥ बाह्याऽभ्यन्तररूपो हि, मन्तव्यो ध्यानिना तदा १००