________________
-प्रदीप
[५७१]
अवशिष्टस्य चाघातिकर्मणो हि विनाशतः। मोक्षप्राप्तिस्ततश्चैव, परममुक्तिता भवेत् ॥३॥ निरञ्जनो निराकारः, सिद्धः कर्मविनाशतः । साद्यनन्तस्थितीनां च, भोक्ता स परमेश्वरः ॥४॥ द्विदृष्ट्या शुक्लध्यानस्य, अधिकारित्वमुच्यते । गुणस्थानकदृष्ट्या च, परा च योगदृष्टितः ॥८॥ गुणस्थानं समुद्दिश्य, विचारो यदि तन्यते । तदा चतुर्ष शुक्लेषु, आद्यौ द्वौ च प्रकारकौ ॥८६॥ एकादशे च द्वादशे, गुणस्थाने च वर्तिषु । पूर्वधरेषु प्राप्येते अन्यत्र नैव तौ मतौ ॥८॥ अत एकादशे चैव, द्वादशे गुणवर्तिनः । पर्वधराश्च नो चेद्धि तदा शुक्लं न विद्यते ॥८॥ परन्तु धर्मध्यानत्वं, मन्तव्यं तत्र धीमता । तदपि प्रायिकं ज्ञेयं, माषतुषादिसाधुतः ॥६॥ मरुदेवादिव्यक्तिषु, दृष्टिवादस्य शून्यता । पूर्वधरत्वता नैव, विद्यते इति मन्यताम् ॥६॥ शुक्लध्यानं च तत्रापि, कथितमागमे खलु । बाहुल्येन च तद्ध्यानं, पूर्वधरेषु ज्ञायताम् ॥११॥