SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ मश्च [५७०] योगस्थिरतां परिप्राप्नुयात् पर्यन्ते तन्मनस्तथा। . चाश्चल्यं च परित्यज्य, निष्पकम्पं प्रजायते ॥७॥ तत्काले परिणामश्च महतीं शुद्धितां भजेत् । ज्ञानावरणसम्पूर्ण तदा विनाशतां भजेत् ॥७६॥ तदा सर्वज्ञभावश्च, प्राप्यते ध्यानयोगतः। द्वयध्यानस्वरूपस्य, व्यवस्था परिदर्शिता ॥७७॥ तृतीयशुक्लध्याने च, स्वासोच्छ्वाससमाक्रिया । कायिकी चैव विद्येत, तद्ध्याने पातनस्य च ॥७॥ सम्भवो नैव कुत्रचित्कदापि, विद्यते खलु । ततः सूक्ष्मक्रियाऽप्रतिपातिध्यानमुच्यते ॥७॥ चतुर्थध्यानरूपेषु, सूक्ष्मक्रियाऽपि नो भवेत् । तत्र चात्मप्रदेशानां निष्पकम्पत्वरूपता ॥८॥ सर्वथा च सदा ज्ञेयं, अतो ध्यानचतुर्थकम् । क्रियानिवृत्तिरूपं च, कथ्यते ध्यानशास्त्रके ॥१॥ एतद्ध्यानप्रभावेन, सर्वाश्रवस्यद्वारकम् । तथा सर्वस्यबन्धस्य, द्वारं सर्व निरुध्यते ॥२॥ १ समुच्छिन्नक्रियानिवृत्तिरूपम्
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy