________________
.
wwwwwwwwwwwwwwwww
-प्रदोप
[५६६] तथैव भिन्नयोगेष संक्रमं च करोति न । तदैकत्ववितर्कत्वनिर्विचारं द्वितीयकम् ॥६६॥ आलम्बनं हि चैकस्य चिन्तनं चैव मुख्यतः । तथार्थशब्दयोगानां, संक्रमः सर्वथा नहि ॥३७॥ उभयध्यानमध्येषु, यत्र भेदप्रधानता। तत्राऽभ्यासै ढीकृत्य पश्चाद्भेदप्रधानके ॥३८॥ योग्यता परिप्राप्नुयाद्यथा च स्वशरीरके । व्याप्तः सर्पविषाणाञ्च, गारुडिमन्त्रयोगतः ॥६६॥ दंशस्थानेषु चैकत्रीक्रियते मन्त्रवादिना । तथैव सर्वविश्वेषां भिन्नविषयवस्तुषु ॥७॥ अस्थैर्यतो भ्रमत्स्वान्तं ध्यानेनैवैकवस्तुषु । आनीय स्थैर्यतारूपं कार्यते योगिना सदा ॥७१॥ स्वान्ते दृढे च सञ्जाते, यथा च काष्ठराशिषु । बहुकाष्ठं च निष्कास्य, अवशिष्टं च वह्नितः ॥७२॥ दाहेन भस्मतां यायाचथैवात्र विचार्यताम् । अथवा पूर्णकाष्ठानि निष्कास्य वाह्रिस्थानतः ॥७३ प्रदीप्तरूपवह्रिश्न, स्वयमेवोपशाम्यति । तथोपर्युक्तशैल्या च, एकवस्तुषु मानसम् ॥७४॥