________________
[५६८]
योगपर्यायस्यैकरूपस्य, अन्यपर्यायरूपके । अर्थतः शब्दरूपे च, शब्दतश्चार्थरूपके ॥५८॥ चिन्तने परिकर्तव्ये, प्रथमशुक्लध्यानता। मानसिकादि योगेष, एकं त्यक्त्वा हि चापरे ॥५६ तादृशे चिन्तने कार्ये, नाना वितर्कता मता । सप्रविचारतारूपं, प्रथममत्र कथ्यते ॥३०॥ अत्रैव श्रुतज्ञानस्य चालम्बनं हि मुख्यतः । एक द्रव्यस्थपर्यायाणाञ्च विभिन्नदृष्टितः ॥११॥ विचारः क्रियते चात्र, प्रथमे शुक्लध्यानके । वितर्कमवलम्ब्यैव, एकार्थतोह्यन्यार्थके ॥६२॥ एकस्माच्छब्दतश्चैव, अन्यशब्दे च सेक्रमः । एकस्माद्योगतश्चैव, अन्ययोगे च संक्रमः ॥६३॥ यदा ध्याता श्रुताधारे, कं चिदेव च पर्यवम् । अर्थ चाश्रित्य तत्रैव, अभेदेनैव चिन्तयेत् ॥६४॥ मानसिकादियोगेष , मध्ये चैकत्र योगके । निश्चलतां च सम्प्राप्य, शब्दार्थाश्च विचिन्तयेत्
१ पृथक्त्व