________________
-प्रदीप
[५६७] अतो ध्यानद्वयं चैव, सवितकं निगद्यते । सहितं श्रुतज्ञानेन, अतः समानमुच्यते ॥५०॥ विभिन्नताऽपि या दृष्टा साऽपि चात्र प्रदर्श्यते । प्रथमे भेदप्राधान्यं, द्वितीयेऽभेदरूपता ॥५१॥ पृथक्त्वैकत्वशब्देन सर्वत्र प्रतिपादिता। अर्थव्यञ्जनयोगानां, संक्रान्तिः प्रथमे मता ॥३२॥ द्वितीये संक्रमो नैव, सर्वथा विद्यते खलु । सविचारमतो ज्ञेयं, ध्यानं तु प्रथमं सदा ॥५३॥ निर्विचारं द्वितीयं तद् ध्यानं विभिन्नमुच्यते । ध्याता पूर्वधरो यत्र, पूर्वश्रुतानुसारतः ॥५४॥ कस्यचित्परमाणोश्च अन्यस्य जडवस्तुनः । तथात्मदव्यतत्त्वेषु, उत्पादस्थिरनाशिनाम् ॥५॥ मूर्त्तत्वामूर्ततादीनां, पर्यायाणां च सर्वदा । द्रव्यास्तिकनयेनैव, भेदप्राधान्यरूपतः ॥५६॥ चिन्तनं परिकर्त्तव्यं, योगिना ध्यानपूर्वके । एकद्रव्यार्थरूपस्य चान्ये द्रव्यार्थरूपके ॥५७॥
१ आये शुक्लध्याने