________________
-प्रदोप
[५६५] सवितर्कविचाराणां, संयोज्य च पृथक्त्वतः । स्वल्पांशे चैव चाचल्यतरङ्गिसागरैः समम् ॥३६॥ असंक्षुब्धदशावच्च, दशानुभवरूपकम् । तदपि शुक्लध्यानं च, प्रथमं परिकीर्तितम् ॥३७॥ भावार्थ:षड्द्रव्याणां च मध्येषु , एकस्मिन् द्रव्यरूपके । उत्पादव्ययध्रौव्यादिपर्यायस्य पृथक पृथक् ॥३८॥ विचारश्च वितर्केण, सहचरिततायुतः। यत्रैव सविधीयेत, तद्न्यानमपि आद्यकम् ॥३६॥ द्वितीय शुक्लध्यानस्वरूपम् - एकत्वेन वितर्केण, अप्रविचारयुक्तकम् । वातानाहतदीपेन, समं स्थिरत्वप्रापणम् ॥४०॥ एकत्वप्रवित्तकं च, अविचारं द्वितीयकम् । तादृशीध्यानता ज्ञेया जगत्कल्याणहेतुका ॥४१॥ तृतीयशुक्लध्यानरूपम्सूक्ष्मक्रियास्वरूपाच्च अपरिभ्रष्टरूपकम् । सूक्ष्मक्रियाऽप्रतिपाति, शुक्लध्यानतृतीयकम् ॥४२