SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ [५६४] योगवितर्कः श्रुतज्ञानं स्यात्पृथक्त्वभिन्नरूपकम् । अर्थव्यञ्जनयोगानां, सङ्क्रान्तिश्च विचारता २७ पूर्वगतश्रुतज्ञानविषयकत्वरूपकम् । अर्थव्यञ्जनयोगाना, संक्रमणं परस्परम् ॥२८॥ तादृविचारकर्तव्यपूर्वकंद्रव्यपर्यवे । तथागुणेषु संचारसम्बन्धिशुभध्यानकम् ॥२६॥ वितर्कसविचाराख्यं, पृथक्त्वेनैव संयुतम् । प्रथमं शुक्लध्यानं तत्कीर्तितं सुखहेतवे ॥३०॥ अथवाचापराश्रयं, विना लब्ध्वा तदातने । विशुद्धविमलात्मत्वस्वरूपचिन्तनं सदा ॥३१॥ तदपि शुक्लध्यानं तत्प्रथमं परिभाष्यते । तृतीयं लक्षणं चैव कथ्यते बोधहेतवे ॥३२॥ अथवा जीवरूपस्य, अजीवस्य च वस्तुनः । स्वभावस्य विभावस्य, पृथक्करणपूर्वके ॥३३॥ द्रव्यपर्यायतत्त्वानां पृथक पृथत्तवचिन्तने । गुणानां पर्यायेषु , पर्यायाणां गुणे तथा ॥३४॥ संक्रमणस्य कर्त्तव्ये, सततं प्रविचारता। तदपि शुक्लध्यानं तत्प्रथमं प्रणिगद्यते ॥३५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy