SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [५६३] अत्यन्तनिर्मलं तच्च, मोक्षसुखनिदानकम् । तयानं येन सम्प्राप्तं, तेभ्यो नमोस्तु सर्वदा १८ बाह्यक्रियाविहीनं यदिन्द्रियविषयातीतम् । सर्वथेच्छाविनिर्मुक्तं, स्वरूपे स्थितमानसम् ॥१६॥ तादृशेर्लक्षणैर्युक्तं, गुणश्रेणिषु विद्यते । तच्छुक्लमिति ज्ञातव्यं, जैनदर्शनवेदिभिः ॥२०॥ आद्यसंहननानां च, शुक्लेऽधिकारता यदि । अन्त्यसंहननानां च, उपदेशो निरर्थकः ॥२१॥ इति संशयसंजाते, समाधान विधीयते । बिना समाधिसम्बोधं, संशयात्मा विनश्यति ॥२२ ऐदंयुगीनजीवानां, यद्यपि नाधिकारता । तथापि सम्प्रदायानामविच्छेदाय कीर्त्यते ॥२३॥ पृथक्त्वसवितर्क च आद्य हि सविचारकम् । एकत्वमपृथक्त्वं च, अविचारं द्वितीयकम् ॥२४॥ सूक्ष्मक्रियास्वरूपं चाप्रतिपातितृतीयकम् । व्युच्छिन्नक्रियकं चैव, चतुर्थ परिकीर्तितम् ॥२५॥ एषां चतुर्विभेदानां, स्वरूपं लक्षणं तथा । कथ्यते स्वीयवोधाय, परकल्याणहेतवे ॥२६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy