SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ [५६२] योगआद्य संहननं पेषां, पूर्वादिश्रुतवेदिनाम् । अष्टप्रावचनं ज्ञानं येषां माषतुषादीनाम् ॥१०॥ तेषामेवाधिकारश्च, अत्र शास्त्रे च वर्णितः । त एव मोक्षलक्ष्मीणां ज्ञायन्ते स्वामिनः सदा ११ स्वल्पसारादिजन्तूनामधिकारो न विद्यते । सामग्रीपरिपूर्णेन, पूर्णकार्य प्रजायते ॥१२॥ प्रोक्तं योगशास्त्रे छिन्ने भिन्ने हते दग्धे, देहे स्वमपि दूरगम् । प्रपश्यन् वर्षवातादिदुःखैरपि न कम्पते ॥१॥ न पश्यति तदा किश्चिन्न शृणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति, लेप्यनिर्मितमूर्तिवत् १४ आत्मार्थ श्रय सर्वत्र, मुश्च मोहावनि तथा । वैराग्यं च विवेकं च, भो समाश्रय सर्वथा ॥१५॥ आत्माऽहितं परित्यज्य, हिते मनो नियुज्यताम् । शरीरात्मविभेदं च, भावयस्व निरन्तरम् ॥१६॥ अनन्तसुखताधारमनन्तदुःख नाशनम् । तादृशे शुक्लध्याने च, प्रयत्नः प्रविधीयताम् ॥१७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy