________________
--प्रदीप
_[५६१] अधोलोकेषु स्वर्गेषु, तिर्यग्लोकस्थितेषु च । यान्येव जिनबिम्बानि, ध्येयरूपाणि सर्वदा ॥१॥ भवनपतिस्थानेषु, व्यन्तरनिलयेषु च । वानमन्तरस्थानेषु, ज्योतिष्के च स्थिरास्थिरे ॥२॥ वैमानिके च सर्वत्र, जिनबिम्बानि यानि च । भत्त्या च बहुमानेन, तानि वन्दे निरन्तरम् ॥३॥ यत्र प्रस्तुतग्रन्थस्य, निर्माणं क्रियते मया। त्रिलोकी जनवद्य तं, सम्मेतशिखरे स्थितम् ॥४॥ द्विविधरिपुनि शकर्तारं योगरोधिनम् । पूर्णलक्ष्म्याश्च भर्तारं, जगदुद्धारकारकम् ॥५॥ तादृशं पार्श्वदेवेशं, शुक्लध्यानचतुर्थंके । स्थितं तं सर्वथा वन्दे, त्रिशुद्ध या बहुभक्तितः ॥६॥ अज्ञानपङ्कतो येन, उद्ध, तो मादृशो जनः। प्रच्छन्नपापपङ्कन, विलिप्तोऽनादिकालतः ॥७॥ मादृशदुष्टजन्तूनामुद्धारो येन कारितः । विश्ववन्य च तं धर्मसूरीशं प्रणमाम्यहम् ॥८॥ जिनेन्द्रदेवतां नत्वा, धर्मसूरिं गुरु तथा । शुक्लध्यानस्थ व्याख्यानं क्रियते योगशास्त्रतः ॥