________________
-प्रदीप rrrrrrrrrrrrrrrrrmmmmmmmmmmmmmm
[५५६] पञ्चत्रिंशद्गुणाढ्यस्य वाणीनां सर्वगामिनाम् । तादृशाहद्र पस्य रूपस्थं ध्यानमुच्यते ॥५१६॥ स्वरूपं चिंतनं सम्यक् जगदानन्ददायिनः । केवलालोकरूपस्य जगदुद्धारकारिणः ॥५२०॥ पुद्गलाकारशून्यानां सिद्धानां परमात्मनाम् । चिदानन्दस्वरूपाणां शास्वतसुखशालिनाम् ॥५२१ निरञ्जनस्वरूपाणां, पूर्णकर्मविनाशिनाम् । सिद्धानां शुद्धध्यानं तद् पातीत प्रकीर्तितम् ॥५२२ पिंडस्थादि चतुर्भेदं ध्यानं च परिकीर्तितम् । चतुर्धाधर्मध्यानानां,स्वरूपं प्राग् विलोकितम् ॥५२३ मोक्षस्य स्वर्गाणां च, कारणं धर्मध्यानकम् । मोक्षककारणं सम्यग् , शुक्लस्यानं प्रकीर्त्यते ॥५२४ साक्षात्स्वर्गस्य हेतुत्वं, धर्मध्याने विचारितम् । पारम्पर्येण मोक्षस्य, हेतुत्वमपि सम्मतम् ॥५२५॥ आद्यद्वयस्य शुक्लस्य, अनुत्तरविमानता । अस्तीति परिमन्तव्या, मोक्षसुखं च सम्मतम् ५२६ उत्तरद्वयशुक्लस्य, सर्वथा मोक्षहेतुता। केवलिभिविना नैव, योगरोधो विधीयते ॥५२७॥