________________
[५५८]
योगइत्यजस्र स्मरन् योगी, तत्स्वरूपावलम्बिनः । तन्मयत्वमवाप्नोति, ग्राह्यग्राहकवर्जितम् ॥५१०॥ अनन्यशरणी भूय, तस्मिंश्चलीयते तथा ॥ ध्यातृभ्यानो भयाऽभावे, ध्येयेनैक्यं यथा व्रजेत्५११ सोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मायदपृथक्त्वेन लीयते परमात्मनि ॥५१२॥ अलक्ष्यं लक्ष्यसम्बन्धात्स्थूलात्सूक्ष्म विचिन्तयेत् । सालम्बाच निरालम्ब तत्त्ववित्तत्वमंजसा ॥५१३॥ पिण्डस्थादिकध्यानानां स्वरूपं परिकीर्तितम् । योगशास्त्रस्थश्लोकेन न तु स्वीयविचारतः ॥१४ मादृशां मन्दबुद्धीनामनुभववियोगतः । तादृशं शुद्धज्ञानं च न भवेन्नात्र संशयः ॥५१॥ पिण्डस्थं धारणाद्यश्च ध्येयस्वरूपचिन्तनम् । पदस्थं पदमालम्ब्य पवित्रं प्रविधीयते ॥५१६॥ मन्त्रविद्यास्वरूपाणि अरिहन्तपदानि च । समालम्ब्यैव कर्तव्यं पदस्थं ध्यानमुच्यते ॥५१७॥ समवसरणस्थस्य तीर्थेशस्य जगद्विभोः । प्रातिहार्यादियुक्तस्य पूर्णातिशयशोभिनः ॥५१८