________________
[५५२]
योगवर्णमालाश्चितं मन्त्रं ध्यायेत्सर्वाभयङ्करम् ॥४७४
नमो सिद्धार्ण ॥
ॐ नमोऽहते केवलिने परमयोगिने विस्फर दुरुशुक्लध्यानाग्निनिर्दग्धकर्म बीजाय प्राप्तानन्त चतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा । चन्द्रषिम्बादिवोद्भूतां, श्रवन्तीममृतं सदा। विद्यां क्ष्वी इति भालस्थां ध्यायेत्कल्याणकारकम् क्षीराम्भोधे विनिर्यान्तीं प्लावयन्ती सुधाम्बुभिः । भाले चन्द्रकलां ध्यायेत्सिद्धिसोपानपद्धति ॥४७६॥ अस्याः स्मरणमात्रेण त्रट्यद्भवबन्धनः। प्रयाति परमानन्दकारणपदमव्ययम् ॥४७७॥ नासाग्रे प्रणवः शून्यमनाहतमिति त्रयम् । ध्यायन गुणाष्टकं लब्ध्वा, ज्ञानमाप्नोति निर्मलम् ॐ हं । अणिमाद्याः । अष्टगुणाः ॥ शङ्खकुन्दशशाङ्काभांस्त्रीनमून् ध्यायतः सदा । समग्रविषयज्ञानप्रागलभ्यं, जायते नणाम् ॥४७॥ द्विपार्श्वप्रणवद्वन्द्व, प्रान्तयोर्माययावृतम् । सोऽहं मध्ये विमूर्धानं अहम्ली कारं विचिन्तयेत्