SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ [५४८] योगशुद्धस्फटिकभृङ्गार, क्षरत्क्षीरसितामृतैः। आभिराप्लाव्यमानं स्वमात्मानं परिचिन्तयेत् ॥४४२ तथास्यमन्त्रराजस्याभिधानं परमेष्ठिनम् । अर्हन्तं मस्तके ध्यायेच्छुद्धफटिकस्वच्छकम् ॥४४३॥ तद्ध्यानावेशतः सोऽहं, सोऽहमित्यवदन्मुहुः । निःशङ्कमेकतां विद्यादात्मानः परमात्मना ॥४४४॥ ततोऽरागमद्वेष-ममोहं सर्वदर्शिनम् । देवाच॑मीश्वरं चैव, कुर्वाणं धर्मदेशनाम् ॥४४॥ ध्यायन्नात्मानमेवेत्थमभिन्नं सर्वदर्शिना । प्राप्नोति परमात्मत्वं, ध्यानी निधूय कल्मषम् ४४६ महानत्त्वमिदं ध्यानी, ध्यायति च यदैव सः । तदेवा-नन्द-संपद्भर्मुक्ति श्रीरुपतिष्ठते ॥४४७॥ रेफविन्दुकलाहीनं, ध्यायेच्छुभ्र ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य तु चिन्तयेत् ॥४४॥ निशाकरकलाकारं, सूक्ष्मं भास्करभास्वरम् । अनाहताभिधं देवं, विस्फुरन्तं विचिन्तयेत् ४४६ तदेव हि क्रमात्सूक्ष्म, ध्यायेद् घालाग्रसन्निभम् । क्षणमव्यक्तमोक्षेत, जगज्ज्योतिर्मयं ततः ॥४५०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy