________________
[५४६]
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
योगअविश्रान्तस्यपिण्डस्थे, दृढाभ्यासस्य ध्यानिनः । प्रभवन्ति न दुर्विद्याः मन्त्रमण्डलशक्तयः ॥४२६॥ डाकिन्यः तुच्छयोगिन्यः पिशाचाश्च पलाशनाः। तत्काले एव त्रस्यन्ति, तस्य तेजोऽसहिष्णवः ४२७॥ दुष्टाः सिंहगजेन्द्राश्च, भल्लुकाः पन्नगास्तथा । जिघांसवोऽपि तिष्टन्ति, स्तंभिता इव दूरतः ॥४२॥ पवित्रपदमालंध्य, योगिना यद्विधीयते । पदस्थध्यानता ज्ञेया, नैक नयविशारदः ॥४२६॥ तत्र षोडशपत्रात्ये , नाभिकन्दगतेऽम्बुजे । स्वरमाला यथापत्रं, भ्रमन्तीं चिन्तयेत्ततः ॥४३०॥
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
चतुर्विशति पत्रं च, हृदि पद्मसकर्णिकम् । वर्णान् यथाक्रमं तत्र,चिन्तयेत्पश्चविंशतिम् ४३१॥ वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत्ततः स्मरेत् । संस्मृरेन्मातृकामेवं, स्याच्छ्रुतज्ञानपारगः ॥४३२॥ य र ल व श ष स ह