________________
-प्रदोप
[५४५ ] ततो बहिः शरीरस्य, त्रिकोणं चाग्निमण्डलम् । ध्यायेज्ज्वालाकलापेन, ज्वलन्तमिव वाडवम् ४१७ ततः त्रिभुवनाभोगं पूरयन्तं समीरणम्। चालयन्तं गिरीनब्धीन क्षोभयन्तं तु चिन्तयेत् ४१८ तावद्भस्मरजस्तेन, क्षिप्रमुद्ध्यवायुतः। दृढाभ्यासः प्रशांतिं तं, आनयेन्मारुती ततः॥४१६॥ दाह्याभावात्स्वयं शान्तिं, याति वह्निः शनैः शनैः । ततश्च वारुणी चैव, धारणा समयः खल ॥४२०॥ स्मरेद्वर्षत्सुधासारैः धनमालाकुलं नमः । ततोऽर्धेन्दुसमाकान्तं, मण्डलं वारुणांकितम् ४२१ नभस्तलं सुधामेधैः प्लवयेत्तत्पुरं ततः। तद्रजः कायसम्भूतं, क्षालयेदिति वारुणी ॥४२२॥ सप्तधातुत्वराहित्य, राकेन्दुपूर्णकान्तिकम् । सर्वज्ञसमस्वात्मानं, शुद्धभावेन संस्मरेत् ॥४२३॥ पश्चात्सद्विष्टरासीनं, सर्वातिशयराजितम् । विदग्धाशेष कर्माणां, पूर्णकल्याणकांक्षिणम् ॥४२४॥ स्वाङ्गमध्ये निराकार, संस्मरेदिति तत्रभूः। ' दृढाभ्यासश्च पिण्डस्थे, ध्यानी शुद्धसुखं स्मरेत् ४२५