SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ [ ५४४] योगशारदचन्द्रसादृश्यं, तत्रैव श्वेतवर्णकम् । विष्टरमुच्चतायुक्तं, तत्र स्थितं स्वकं स्मरेत् ४०६ तत्रस्थं स्वीयमात्मानं, एतादृशं स्मरेत्तदा । रागादिसर्वदोषाणां नाशने पूर्णशक्तिकम् ॥४१० भवोद्भूतानि कर्माणि, तेषां सन्तानशातने । प्रोद्यमशीलतायुक्तं स्वंसर्वथा विचिन्तयेत् ॥४११॥ ततो दृढ़प्रयासेन नाभिमण्डलमध्यगम् । षोडशदलसंयुक्तं, पङ्कजं परिचिन्त्यताम् ॥४१२॥ तत्पद्मकर्णिकायां च, स्वरमालासुशोभितम् । प्रतिदलसमासीनं, महामंत्रं तु ध्यायताम् ॥४१॥ अआइई उ ऊ ऋ ऋ ल ल ए ए ओ औ अं अः। रेफबिन्दु कलाक्रान्तं, महामन्त्रे यदक्षरम् ॥ रेफात्शनैश्च निष्क्रान्ति, धूमशिखां तु चिन्तयेत् । स्फुलिङ्गानां ततिं ध्यायेज्ज्वालामालामनन्तरम् । ततो ज्वालासमूहेन, हृदिस्थं कमलं दहेत् ॥४१५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामंत्रध्यानोत्थः प्रबलानलः ॥४१६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy