________________
-प्रदीप
[५३५]
अन्तरात्मा तु दृश्येत, शुद्धात्मपदहेतुकः । भिन्नं देहादिकं ज्ञेयं, त्वं सदा भिन्नरूपकः ३३० शुद्धात्मपथदीपत्वं, तदा स प्रकटीभवेत् । ततः शुद्धात्मता प्राप्तिः, वीतराग-स्वरूपता ॥३३१॥ भेदज्ञानसुखास्वादी क्रिया कष्टं च नो भजेत् । विना ज्ञानं तपः कारे, भवान्तो नैव प्राप्यते ॥३३२ पुद्गलाभिनिवेशाश्च, जायन्ते ज्ञानिनां कथम् । सर्वमदविनाशे च, सहजोद्योतता भवेत् ॥३३३॥ क्षमादिधर्मसद्भावे, धर्मसन्यासतोद्भवेत् । कल्पितभवभावेषु, औदासीन्यं च नो कथम् ३३४ यथा हि रज्जुज्ञानेन, अहिज्ञानं निवर्तते। तथात्मज्ञानसद्भावे, भवायोधो निवर्तते ॥३३५॥ अरूपिचेतनं द्रव्यं, सधर्मः परिकीर्तितः । परहितं न तादृशं द्रव्यं मनसि ज्ञायताम् ॥३३६॥ रागादि परित्यज्यैव, कुरु गुणगवेषणम् । तदा स्वान्ते चिदानन्दस्वरूपं प्रकटीयते ॥३३७॥
१ पुद्गल परिणाम