SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ [ ५३४ ] योग " ग्रहणयोग्यतां त्यक्त्वा, गृहीतं नैव वर्जयेत् । सर्वस्वभावज्ञाता यः स स्वपरप्रकाशकः ॥ ३२१॥ शुक्तौ रजतभ्रान्त्या वै यतते बालिशो यथा । देहात्मभ्रमबुद्धया च, बहिरात्मा तथा मतः ॥ ३२२॥ यथा रजतभ्रांतिश्च शुक्तिं दृष्ट्वा निवर्तते । शुद्धात्मज्ञान सद्भावे, देहभ्रमोऽपि नश्यति ॥ ३२३॥ यथा योगे च भोगे च, स्वपिसि यं विना च त्वम् । अतीन्द्रियस्वरूपत्वं, त्वदीयं सर्वदा मतम् ॥ ३२४॥ ज्ञानिनां सर्वसंसारे, सम्बन्धः कोऽपि नो भवेत् । जगत्कषायरूपत्वं, जगदन्धसमं मतम् ॥ ३२५॥ बहिरात्मस्वरूपस्य, त्यागे चान्तररूपता । यत्र विकल्पता- नैव, तत्रैव परमात्मता ॥ ३२६ ॥ या दृढ़वासना तत्र, शुद्धात्मपदहेतुका । इलिका भ्रमरीध्यानाद्यथा वै भ्रमरी भवेत् ॥ ३२७॥ जिनमतिर्जिनेन्द्रे च दद्याज्जनपदं तथा । यत्र जडेषु विश्वासः, तत्र च सर्वथा भयम् ॥३२८ यत्र जडे न विश्वासः तत्र निर्भयता सदा । रुध्वा चेन्द्रियवृत्तिं च, विभावं सर्वथा त्यजेत् ३२६
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy