________________
-प्रदीप
[५३३] शरीराद्भिन्नरूपेण, य आत्मा परिमन्यते । सोन्तरात्मा सदा ज्ञेय, कर्मणां मर्मवित्तथा ३१३॥ घातिकर्मविनाशेन, यो जातः शुद्धरूपकः । परमात्मा स विज्ञेयः शुद्धरूपो निरञ्जनः ॥३१॥ इन्द्रियबलतादौ च, आत्मबुद्धित्वयोगतः । अहंकारत्वभावः स्याद्, बहिरात्मा तु तत्र वे ॥३१५ अलक्ष्यो देहव्यापी स्यान्निरंजनो विशुद्धिभाग । देहात्मात्वाभिमानेन, अरिमित्रादिकल्पनम् ॥३१६॥ स्वकीयपरकीयत्वकल्पना भ्रममूलिका। अशुद्धव्यवहारेण, तादृशो कल्पना भवेत् ॥३१७॥ पुत्रादिकल्पना ज्ञेया, बहिरात्मप्रयोगतः। पुद्गलीय पदार्थेषु, ममत्वबुद्धियोजनम् ॥३१८॥ बाह्यदृष्टिप्रचारेण, रूपादिकं विलोक्यते । अन्तरदृष्टिसद्भावे, मोहदृष्टिविनश्यति ॥३१॥ मोहदृष्टिपरित्यागे, गुणसृष्टिगृहे सदा । रूपिणं वीक्ष्य रूपत्वं, रक्तपीतादि कल्पनम् ॥३२०