________________
[ ५३६ ]
रागादिपरिणामेन, मान सेऽनन्त संसृतिः ।
रागादि रहिते तत्र शिवपदं समीपकम् ॥ ३३८ ॥ भवप्रपञ्चस्वान्तं च तन्मृषा रूपतां भजेत् । स्तोकदिनान्तके सर्वं रजो रूपं प्रभासते ॥ ३३६ ॥
योग
"
रागादि परित्यज्यैव कुरु गुणगवेषणम् । विशुद्धरूपता चित्ते, तदा च प्रकटीयते ॥ ३४० ॥ औदासीन्ये च संसारे ज्ञानध्यानामृताञ्जनम् । मुनिनाष्टाङ्गयोगेन तत्त्वामृतं प्रसूयते ॥ ३४९ ॥
"
।
अनासङ्गमतिध्याने, रागद्वेषविच्छेदनम् । सहजभावलीनत्वमौदासीन्यप्रसूतिकम् ॥ ३४२ ॥ ममताराक्षसी यस्य, समीपे सर्वदा वसेत् । निर्ममता सुखास्वादः, कदापि नैव लभ्यते ३४३ ममताविषसंयुक्ते, अन्तरगुणवृन्दता । परिणश्यति शीघ्रं सा, अनन्तदोषपोषिका ३४४ ममताविषनाशे च समता निकटे वसेत् । गुणवृन्दप्रकाशश्च शीघ्रं हि परिजायते ॥ ३४५॥ वासना मोहजन्या सा ज्ञानिनां प्रतिकूलता । मियथ्याश्रुतनिमित्ता सा, अहंकारप्रसूतिका ३४६ ॥