________________
[ ५३०]
योग
तादृश गुणस्थानेषु, धर्मध्यानस्य सम्भवः । अर्थात्सप्तमतश्चैव, द्वादशगुणपूर्वके ॥२८॥ श्वेताम्बरीय मन्तव्ये, सम्भवः परिज्ञायताम् । दिगम्बरीय मन्तव्ये, चतुर्थात्सप्तमे खलु ॥२८७॥ अग्रे तु नैव मन्तव्यंः, धर्मध्यानं गुणालये। दिगम्बरीयमन्तव्ये, युक्तिस्तु तेन दर्शिता ॥२८॥ सम्यग्दृष्टिमनुष्याणां, श्रेणिप्रारम्भपूर्वके । धर्मध्यानं तु मन्तव्यं, श्रेण्यारम्भस्तु चाष्टमात् २८६ अतोष्टमादिकात्माक्च, गुणेषु धर्मध्यानकम् । सूक्ष्मवुध्या विचारस्तु, कर्तव्यो गुणकांक्षिणा २६० अष्टमादि गुणस्थाने, धर्मध्यानस्थ सम्भवः । वस्तुगत्या प्रचारश्च, केनापि नैव वार्यते ॥२६१॥ अनाद्यनन्तलोकस्तु, स्थित्युत्पादव्ययात्मकः । तस्याकृतेर्विचारश्च, संस्थानविचयात्मकः ॥२६२॥ विभिन्नद्रव्यगानन्तपर्यायपरिवर्तनात् । सर्वदाऽऽसक्ततां नैव रागादौ मानसों भजेत् २९३॥ क्षायोपशमिकाद्याश्च, भावाः स्युर्धर्मध्यानके । लेश्याः क्रमेण शुद्धाः स्युः, तेजः पीताश्च शुक्लकाः॥