SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [५२६] wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww शुद्धवंशे समुत्पद्य, नित्योत्सवमनोहरान् । नैकभोगांश्च भुञाना, विचरन्ति महीतले ॥२७॥ विवेकत्वं समासाद्य, त्यक्त्वा भोगांश्च सर्वथा । सर्वोत्तमसुध्यानेन, गच्छन्ति पदमव्ययम् ॥२७६॥ अतोहि धर्मध्यानाय, सर्वथोद्यमतां भज । शिवश्री जायते यस्मात्ततः कथं न सेव्यते ॥२८॥ द्रव्यक्षेत्रस्य सम्बन्धि, आकारस्य विशेषतः। चिन्तनं सूक्ष्म बुद्ध या तत्संस्थानविचयं मतम् ॥२८१ पञ्चास्तिकायरूपोऽयं, लोक इति विभाव्यताम् । आकारः कीदृशस्तस्य, भेदाश्च कतिधा मता २८२ इत्येवं चिन्तनं नित्यं, सूक्ष्मबुद्ध्या च तत्त्वतः। संस्थानविचयाख्यं तद्धर्मध्यानं प्रकीर्तितम् ॥२८३ धर्मध्यानस्य योग्याश्च, सप्तमे गुणवर्तिनः। एकादशत्वगाश्चैव, द्वादशगुणवर्तिनः ॥२८४॥ त एव नैव मन्तव्याः, किन्त्वष्टमगुणालयाः । नवमगुणस्थानस्थाः, दशमगुणवर्तिनः ॥२८॥ १ पञ्चमादितः प्रारभ्यदशमगुणस्थानपर्यन्तं
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy