________________
-प्रदोप
'५३१] योगप्रवृत्तिचिह्न च, प्रथमं परिभाव्यते । आरोग्यं लोभना हीनमनैष्ठ्यं च सर्वदा ॥२६॥ मूत्रपुरीषमल्पत्वं, शुभो गन्धश्च देहजः । कान्तिः प्रसादता चैव, स्वरेषु सौम्यता तथा २६६ इह लोके फलान्येव, निगद्यन्ते विशेषतः। योगशास्त्रीय श्लोकेन, प्रमाण दृढ़भावतः ॥२६॥ त्यक्तसंगास्तनु त्यक्त्वा, धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेष, भवन्ति त्रिदशोत्तमाः ॥२६॥ महामहिमसौभाग्य, शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र, स्त्रग्भूषाम्बरभूषितम् ॥२६॥ विशिष्टवीर्यबोधाब्यं, कामार्तिज्वरवर्जितः। निर्विघ्न परिसेवन्ते, सुखं चानुपमं चिरम् ॥३०॥ इच्छासम्पन्नसर्वार्थ, मनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जानाः, गतं कालं न जानते ॥३०१॥ अतः स्वर्गापवर्गस्य, हेतुत्वं धर्मध्यानके। अपवर्गकहेतुत्वं, शुक्लध्याने प्रकीर्तितम् ॥३०२॥ धर्मध्यानस्य पुष्टयर्थमात्मबोधो निगद्यते। अध्यात्मज्ञानताहीनं ध्यानं सर्व निरर्थकम् ॥३०॥