SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ mmmmmmmm [५१४] योगअनादियासनायोगान्मोहकर्मप्रयोगतः। तत्त्वाभ्यासविहीनेन, धर्मध्यानं तु विस्मृतम् १५१ दुष्टमानसयोगेन, प्रमादपरिसेवनात् । मिथ्यात्वभावनायोगाद्धर्मध्यानं तु विस्मृतम् १५२ धर्मध्यानं विना सर्व, मानुष्यत्वं च निष्फलम् । रत्नत्रयों विना शुद्धं, धर्मध्यानं तु नो भवेत् १५३ जैनागमं विना नैव शुद्धात्मना च ज्ञायते । शुद्ध रूपं तु नान्यत्र, कदापि परिप्राप्यते ॥१५४॥ यत्रैकान्तेन नित्यत्वं, अनित्यत्वं च यत्र वै। यत्र व्यापकतायुक्तः, अङ्गुष्ठपर्वमात्रकः ॥१५॥ आत्मसत्ता तु यत्रैव, सर्वथा नैव मन्यते । नित्यतादिविचारस्तु, तत्र कथं विधीयते ॥१५६॥ एताहरवासना ज्ञेयाः, धन्यास्ते गुरवो मताः । धन्यास्ते शुभसंयोगाः, धर्मध्याने सहायकाः १५७ शुद्धयोगत्वसम्पन्नाः, शुद्धयोगप्रकाशकाः । ते यशोविजया धन्याः, ते धर्मसूरयस्तथा १५८ सर्वज्ञप्रोक्ततत्त्वेषु, श्रद्धाद्यत्पन्नहेतुकम् । चिन्तनं वस्तुनो यस्माद्धर्मध्यानं ततो मतम् १५६
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy