________________
-प्रदोप
[५१३) संहननं तु चात्रैव, उत्तमं परिगृह्यते । आद्यत्रयं च ध्यानादौ, उत्तमत्वेन कीर्तितम् १४२ वजभेन नाराचं, ऋषभनाराचं तथा । संहननं तु नाराचं, तत्त्रितयं निरूपितम् ॥१४३॥ तन्मध्ये येन केनापि, युक्तो ध्यानाधिकारकः । पूर्वोक्तयोगसामग्रीयुक्तश्च परिगृह्यते ॥१४४॥ तस्यैवैकपदार्थे च, ध्यानं चिन्तानिरोधकम् । चलचित्तादिकं त्यत्तवा, स्थिररूपेण चिन्तनम् १४५ बस्तुस्वरूपचिन्तायां, सर्वथा वस्तुरूपकम् । द्रव्यगुणपर्यायेण नित्यानित्यत्वरूपतः ॥१४६॥ सदसत्त्वप्रकारेण, सामान्येन विशेषतः। अपेक्षातश्च एकस्मिन् चिन्तनं सुखदायकम् १४७ दृढमनोबलं यत्र, चिन्तने परिगृह्यते । योगिना शुद्धस्वान्तेन, चिन्तने वस्तु प्राप्यते १४८ हेयं ध्यानं च सम्प्रोक्तमातरौद्राभिधानकम् । धर्मशुक्लत्वध्यानस्य, स्वरूपं प्रणिगद्यते ॥१४६॥ आदौ तु धर्मध्यानस्य, वर्णनं समुपस्थितम् । पश्चाच शुक्लध्यानस्य, स्वरूपं प्रणिगद्यते ॥१५०॥