________________
{ ५१२
योग
गीतावक्ताध्यानं
प्रपन्नपारिजाताय, तोऽत्रवेत्रकपाणये । ज्ञानमुद्राय कृष्णाय, गीतामृतदुहे नमः ॥१३४॥ श्रीकृष्णरामदेवानां, पञ्चमुखशिवादीनाम् । नैकावस्थास्वरूपेण, ध्यान भेदाः प्रकीर्तिताः ॥१३५ सर्वत्र रागप्राधान्यं, द्वेषादिकं च सर्वथा । मोहरूपं कदाचिच्च, वीतरागं न कुत्रचित् ॥१३६॥ अन्यत्र कामिरूपं च, चोररूपं च वर्णितम् । वीतरागस्वरूपं तु, दृश्यते नहि कुत्रचित् ॥१३७॥ तादृशध्यानकर्त्तणां, रागद्वेषादिकं विना । अन्यत्फलं न प्राप्येत, ततोऽपि भववृद्धिता ॥१३॥ संसारभ्रान्तिसम्पूर्णा नापयाति कदाचन । अतस्तादृशव्यक्तीनां, ध्यानं तु दुःखहेतवे ॥१३॥ अतः सर्व परित्यज्य, वीतरागस्वरूपकम् । ईश्वरं वर्णितं पूर्व, तद्ध्यानं सर्वसौख्यदम् ॥१४॥ जैनदृष्ट्या ध्यानस्वरूपंध्यानरूपं तु जैनानां, कीदृशं वर्णितं मतम् । तत्सर्व प्रतिपाद्यत, श्रूयतां सावधानतः ॥१४॥