________________
- प्रदीप
[ ५०६ ]
भक्तैश्च सह लीलायाः, कर्त्ता गुणाकरः सदा । लीलामयस्तु ज्ञायव्यः साकारः सद्गुणस्तथा ॥१२१॥ सीतारामध्यानस्वरूपम् — कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितम्
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानूनि ॥ सीतां पार्श्वगतां सरोरुहकरां, विद्युन्निभं राघवम् । पश्यन्तं मुकुटां गदादिविविध कल्पोज्ज्वलाङ्ग भजे १२२ सिंहासनारूढरामध्यानस्वरूपम् -
"
नवदूर्वादलश्यामं पद्मपत्रायते क्षणम् ।
रविकोटिप्रभायुक्तं, किरीटेन विराजितम् ॥ १२३॥ कोटिकन्दपैलावण्यं, पीताम्बर समावृतम् । दिव्याभरणसम्पन्नं, दिव्यचन्दनलेपनम् ॥ १२४॥ अयुतादित्यसंकाशं, द्विभुजं रघुनन्दनम् । वामभागे समासीना, सीतां काञ्चनसन्निभाम् १२५ सर्वाभरणसम्पन्नां वामाङ्ग समुपस्थिताम् । रक्तोत्पलकराम्भोजां, वामेनालिंग्य संस्थितम् १२६ ॥ सर्वातिशयशोभाढ्य, दृष्ट्वा भक्तिसमन्वितम् । तादृशं रामस्वरूपं च, स्मर्यतां सर्वकामिना ॥१२७॥