________________
[ ५०८ ]
योग
अनिर्वाच्यमचिन्त्यं च, अवाङ्मनसमोचरम् । निष्क्रियं शुद्धब्रह्मत्वं, निराकारं च निर्गुणम् ११३ गुणातीतोऽविनाशी च, अजो मायापतिस्तथा । महेश्वरो जगत्कर्त्ता, निराकारश्च सद्गुणः ॥ ११४ ॥ मायातीतोऽविनाशी च दिव्यविग्रहधारकः । स एव भगवान् ज्ञेयः, साकारो निर्गुणस्तथा ॥ ११५ ॥ अजश्चैवाविनाशी च, लीलाविहारयुक् सदा । दिव्यया प्रकृत्या चैव, खेलको दिव्यवैग्रहः ॥ ११६ स विराट् स्वरूपस्तु, ईश्वरः सर्वरूपकः । साकारः सगुणश्चैव भगवान् परिकीर्त्तितः ॥११७
द्वैते चतुर्गुणयोजने --
दयालुः सर्वजीवेषु- सर्वशक्तिसमन्वितः । निराकारश्च निर्गुणः ॥ ११८
न्यायकारी तु ज्ञातव्यः, सञ्चालकश्च सर्वत्र, सर्वसंसारिप्राणिनाम् । सगुणः स निराकारः, द्वैतरूपश्च कीर्त्तितः ॥ ११६ ॥ भक्तानां परित्राणाय, मायातो देहधारी च । सर्वदा निर्गुणो ज्ञेयः, साकारो निर्गुणस्तथा ॥ १२०