________________
-प्रदीप .
[५०७] स्थूलध्यानाच्च ज्योतिर्ध्यानं शतगुणकं भवेत् । ज्योतिर्ध्यानाच्च सूक्ष्मत्वध्यानं लक्षगुणं स्मृतम् ॥ आत्मप्रत्यक्षता यस्माद् ध्यानतः परिजायते । तत्कथं नैव श्रेष्टं स्यादिति मनसि चिन्त्यताम् १०६ श्रीभगवद्गीता अ० ६ ध्यानोल्लेखश्लोका :समं कायशिरोग्रीवं, धारयनचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं, दिशाश्चानवलोकयन् १०७
___ अ० ६ । श्लो० १३ सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समं ततः ॥१०॥ शनैः स्वरूपतां ध्यायेद् बुध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा, न किञ्चिदपि चिन्तयेत् । यतो यतो निश्चरति, मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैव, तदात्मनि वशं नयेत् ॥११०॥ निर्गुणं च निराकार, निराकारं च सद्गुणं । निर्गुणं चैव साकारं, साकारं सद्गुणं तथा १११ अद्वतद्वततत्त्वेषु, चतुर्भङ्गी निरूप्यते । प्रथमावतभावेषु, दर्श्यते लोकहेतवे ॥११२॥