________________
• प्रदीप
[५०५] वराऽभयं करं शान्तं स्मरेत्तन्नामपूर्वकम् ॥८॥ कङ्कामालिनीतन्त्रेऽपि प्रोक्तम् :सहस्रदलपद्मस्थमन्तरात्मानमुज्ज्वलम् । तवं नादविन्दोश्च मध्ये सिंहासनोज्ज्वले ॥८६॥ तत्र निजगुरुं नित्यं रजताचलसन्निभम् । वीरासनसमासीनं सर्वाभरणभूषितम् ॥१०॥ शुक्लमाल्याम्बरैर्युक्त वरदाभयपाणिकम् । वामोरूशक्तिसंयुक्तं कारुण्येनावलोकितम् ॥११॥ प्रियया सव्यहस्तेन धृतचारुकलेवरम् । वामेनोत्पलधारिण्या रक्तालङ्कारिण्या युतम् ॥१२॥ ज्ञानानन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् । तादृग्गुरुपदं ज्ञयं ध्यानार्थमत्र गृह्यताम् ॥१३॥ तादृग्गुरुस्वरूपस्य चिन्तनं स्थूलध्यानकम् । ततोऽग्रे किल ज्योतिकरूपं तु प्रविचार्यताम् ॥१४॥ गुह्यदेशेषु लिङ्गस्य मूले च मध्यस्थानके । कुण्डलिनीवक्राकारैः परिवृत्यैव तिष्ठति ॥१५॥ जीवात्मा खलु तत्स्थाने दीपशिखासदृस्थितः । ज्योतिर्मयप्रभूणां च तत्स्थाने स्मरणं भजेत् ॥६६॥