________________
[५०४]
योग
सहस्रदलसंख्याकं ब्रह्मरन्ध्र च पङ्कजम् । महापद्माभिधानं तद्विशुद्ध श्वेतवर्णकम् ॥८॥ शुद्धतेजोमयं ज्ञयं वर्णान्वितं च पत्रकम् । हसक्षभलवरयु हसखफें वर्णात्मकम् ॥१॥ द्वादशबीजसंयुक्तं कर्णिका तु निगद्यते । अकथं त्रीणि वर्णानि तिष्ठन्ति च त्रिकोणके ८२ त्र्यसमध्ये च विज्ञयं हलक्षेन त्रिकोणकम् । तन्मण्डपे च ओंकारः सदा सिद्धो विराजते ॥८३ योगिना परिचिन्येत तत्रैव नादबिन्दुकम् । पीठमेकं च राजेत द्वौ हंसौ तत्र तिष्ठतः ॥४॥ पादुका खलु तत्रापि सर्वगुरुविराजते।। द्विभुजाभ्यां च संयुक्तः त्रिनेत्रपरिशोभितः ॥८५ शुक्लवस्त्रं समाच्छाद्य चन्दनलिप्तगात्रकः। श्वेतमालासमायुक्तः सर्वदा परिशोभितः ॥८६॥ तादृशगुरुध्यानेन स्थूलध्यानं तु सिद्ध्यति । अग्रेच सर्वध्यानानां सोऽपि योग्यो भविष्यति ८७ प्रोक्तं विश्वसारतन्त्रे :प्रातः शिरसि शुक्लेग्जे त्रिनेत्रं द्विभुजं गुरुम् ।