________________
-प्रदीप
- [५०३]
तम्बाक्वादिककष्टानां दुष्टानां व्यसनं त्यजेत् । मांसमद्यादिवस्तूनां सर्वथा वर्जनं वरम् ॥७२॥ नोष्णाभुक्तिश्च कर्त्तव्या नाम्ला तिक्ता न माधुरी। सर्षपादिकतैलानां पलाण्डलमुनादीनाम् ॥७३॥ गज्जरपनसादीनां भोगो नैव विधीयताम् । तथा दध्यादिवस्तूनां भोगो योगविवाधकः ॥७४॥ मिष्टलिम्बूफलं चैव बिल्लीफलं तथैव च । कदलीफलमुख्यं च भोजनं योगिनां मतम् ॥७॥ . गृहे कस्यापि नो भुक्तिः परहस्तेन नो तथा । शुद्धरूपं स्वयं दृष्ट्वा भोजनं परिभाव्यताम् ॥७६ यत्प्रोक्तं तच्च सम्पूर्ण स्वान्ते ग्राह्य तु सर्वथा । तथा नियतस्थानादिनियतसमयस्तथा ॥७॥ नियतमासनं चैव संसेव्यमन्त्रकं स्मरेत् । ध्यानभेदस्वरूपं च तच्छास्त्रेणैव कथ्यते ॥७॥ ध्यानमनेकधा प्रोक्तं स्थूलसूक्ष्मादिभेदतः। स्वरूपं कथ्यते तस्य श्रूयतां सावधानतः ॥७॥
१ कष्टानां व्यसनानां