________________
[ ५०२ ]
योग -
सभासमितिस्थानानां वर्जनं सर्वधा मतम् । स्वयशोगुणवृद्ध्यर्थं, कुत्रापि नैव चेष्टनम् ॥६३॥ परचर्चा न कर्त्तव्या, परदोषो न दृश्यताम् । तेषां च चिन्तनं नैव कर्त्तव्यं ज्ञानिना कदा ॥ ६४ ॥
5
मधुरं प्रियतायुक्तं, वक्तव्यं योगिना सदा । प्रयोजनं विना नैव वक्तव्यं क्रियतांकदा ॥ ६५॥ सदा मौनं च कर्त्तव्यं, चित्तविषादवर्जनम् । अहंकारादि भावानां स्पर्शनं नैव तन्यताम् ॥६६॥ मानसन्मानरूपाणां भावानां नैव प्रार्थनम् । स्वीयत्र्यादिकसम्पत्तीनां संगं सर्वथा त्यजेत् ६७
ध्येयप्रीतिकराणां च ग्रन्थानां पठनं सदा । स्वेष्टनाम्नश्च मन्त्राणां जपनं विधिपूर्वकम् ॥६८ इष्टदेवगुणानां वै प्रभावस्यैव चिन्तनम् । तस्य दयालुभावेषु विश्वासः क्रियतां सदा ॥ ६६ ध्येय साधनस्थानादिमाला वस्त्रासनं तथा । मूर्त्यादिसर्वसामग्रीस्नानं विना न स्पृश्यताम् ॥७० | जागर्या नाधिका कार्या शयनं नाधिकं तथा । भोजनं चाधिकं नैव लङ्घनं नाधिकं तथा ॥ ७१ ॥