________________
[१८]
योग
दृष्टस्य जल्पने हिंसा, लुप्यते प्रथमं ततः। तेनैवं रक्षता सत्य-महिंसा कवलीकृता ॥४४॥ सत्यं जीवानुकुल्यंतद्, व्रतमुक्त हि ज्ञानिना। निरुक्तार्थ समालोच्य, वक्तव्यं धर्मरक्षता ॥४॥ तस्मात्तथैव वक्तव्यं, मृगा दृष्टा मया नहि । द्वितीयं प्रथमं चैत–निरुक्तार्थेन रक्ष्यते ॥४६॥ नवकोटि-विशुद्धं तत्, संयमिभिः प्रगृह्यते । गृहस्थ-ग्रहणा-योग्यं, तस्मात्स्थूलं निगद्यते ॥४७॥ कन्या-गवादि-भूमीनां, न्यासापहरणं तथा । कूटसाक्ष्यन्त्वलीकंच,जल्पन्ति नहि धार्मिमकाः॥४८॥ कन्यया द्विपदानांच, चतुष्पदानामादितः। कर्तव्यः संग्रहो ह्यवं, व्रतार्थं भवभीरुभिः ॥४६॥ मृषावादे महादोषः, सर्वशास्त्रेषु विश्रुतः। परत्रदुर्गतेहेतुः, ह्यतो नैवं प्रजल्पयेत् ॥५०॥ चण्डालिका कदा काऽपि, दृष्टा भूदेव-भानुना । जातशंकेन पृष्टा सा, सत्यंभो प्रणिगद्यताम् ॥५१॥ काकमांसं चितापक्वं, ग्रहीतंच त्वया करे। ' रजस्वला च प्रत्यक्षम्, शिरः शकृत्करंडिका ॥५२॥