________________
PAAAAN
-प्रदीप
[ ४६७] सद्भावे या च चिन्ता स्यात्संसारवृद्धिहेतुका। तृतीयमार्तध्यानं तज्जैनशास्त्रे प्ररूपितम् ॥१६॥ कामोपहतचित्तेन, पतितपरिणामिना । जनेन परिचिन्त्येत, देवेन्द्रनपचक्रिणाम् ॥२०॥ वैभवसामग्री दृष्ट्वा भवान्तरे ममापि हि । अनेन तपसा मूयात्समृद्धयादिकतादृशम् ॥२१॥ इत्येवं चिन्तनं चैव निदानं प्रणिगद्यते । भोगविषययाश्चातः भोगोऽपि परिप्राप्यते ॥२२॥ संसारकूपपाताय सा याचा दुःखदायिका। यतः संसारवृद्धिः स्याद्भवभ्रमणता ततः ॥२३॥ यत्र भोगास्ततो रोगाः यत्र रोगास्ततोऽशमः । यत्र दुःखं च तत्रापि दुर्ध्यानं सर्वदा भवेत् ॥२४॥ दुर्ध्याने सुखलेशोऽपि वस्तुगत्या न जायते । अतो हि चातत्यागाय सदा यत्नो विधीयताम ॥२५ जन्मदुःखं जरादुःखं मृत्युदुखं पुनः पुनः । तत्कथं सुखरूपं स्याज्ज्ञानिना परिचिन्त्यताम् ॥२६
१ अशमे दुःखम्