________________
mirm.
[४६६]
योग-- ध्यानं चतुर्विधं ज्ञेयं, चातरौद्रद्वयं खलु। तृतीयं धर्मध्यानं स्याच्छुक्लध्यानं चतुर्थकम् ॥१०॥ आद्य द्वे हेयतारूपे, संसारवृद्धिहेतुके। अन्त्ये व मोक्षमार्गस्य, निमित्ते परिकीर्तिते ॥११॥ आर्तरौद्रकध्यानानां, हेयस्वरूपधारिणाम् । आदौ व्याख्या प्रकारस्तु, स्वबोधाय वितन्यते १२ शोकाक्रन्दनभावेषु, परितापविलापके। पीडानिदानसद्भावे, आर्तध्यानं प्रकथ्यते ॥१३॥ तच्चतुर्विधरूपं स्थादिष्टानां विरहादितः । इष्टवियोगसद्भावे, या चिन्ता परिजायते ॥१४॥ मातापुत्रकलत्राणां, पिताभ्रातादिप्राणिनाम् । आयुःपूर्णे च सद्भावे, वियोगो दुःखदायकः ॥१५॥ वियोगो मे कदा नो स्यादिति विचाररूपकम् । इष्टवियोगचिन्ताख्यं, प्रथमं परिकीर्तितम् ॥१६॥ अनिष्टपितृषन्धूना, संयोगो यदि जायते । तद्वियोगः कदा मे स्यादिति चिन्ता तु या भवेत् ॥१५ तदपि दुःखहेतु स्यादातध्यानं द्वितीयकम् । शूलज्वरादिरोगाणामत्यन्तदुःखदायिनाम् ॥१८॥