________________
- प्रदोष
अनन्तज्ञानरूपाय, दर्शनानन्तधारिणे ।
चारित्रानन्तयुक्ताय, प्रातिहार्याष्टदीप्ताय, पूर्णातिशयरूपिणे ।
[ ४६५ ]
अनन्तवीर्यशालिने || १॥
पञ्चत्रिंशच वाणीनां गुणेन सहिताय च ॥२॥ त्रैलोक्यध्येयरूपाय त्रिलोकीपूजिताय च । त्रिलोकीजनवन्धाय त्रिलोकी जनस्वामिने ॥३॥ देवनरेन्द्रनाथाय, जगन्नाथाय सर्वदा ।
परमानन्दरूपाय नमः त्रैलोक्यतायिने ॥४॥ आदितीर्थप्रतिष्ठाय, आदितीर्थंकराय च । आदिनिर्ग्रन्थदेवाय, आदिभव्यत्ववोधिने ||५| आदिकैवल्यज्ञानाय, आदीश्वराय देहिनाम् । आदिजिनेन्द्रदेवाय, ऋषभस्वामिने नमः ॥६॥ विंशतिश्चाजितादीनां यत्र निर्वाणताऽभवद् । तेषां गणधराणां च शुभस्वाम्यन्तस्वामिनाम् ॥७॥ कोटिशः साधुवृन्दानां, मोक्षप्राप्तिश्च यत्र वै । तस्मै गिरिवरेन्द्राय, सम्मेताय नमोनमः ||८|| त्रिकालं वदनं तेषां कृत्वा स्मृत्वा गुरु तथा । योग प्रदीप ग्रन्थेषु, ध्यानव्याख्या वितन्यते ॥ ॥
,