________________
wwwwwwwww
حرم حرمی
جی کی بی بی حرم
-प्रदीप
[४६१] शास्त्रजनितसंस्कारबलेनैव प्रजायते । यथा चक्रपरिभ्राम, दण्डेन प्रथमं मतम् ॥२८॥ दण्डजनितवेगेन, पश्चात्तु परिजायते । सङ्गस्य परित्यागेन, अनालम्बनता भवेत् ॥२८६॥ अनालम्बनरूपत्वमसङ्गत्वानुष्ठानकम् । मन्तव्यं शुद्धभावेन, असङ्गयोगकांक्षिणा ॥२६॥ आलम्बनत्वयोगस्तु, स्थानादिपञ्चरूपकः । इच्छास्थैर्यप्रवृत्त्यादिचतुर्भेदस्य योजने ॥२६१॥ पञ्चभिः सह कर्तव्ये, विंशतिकुलसंख्यकाः । तत्र प्रत्येकभेदानां, प्रीत्यनुष्ठानकादिना ॥२९२॥ योजने कुलसंख्या स्यादशीतिभेदरूपिका । आलम्बनेषु वैविध्यं, रूप्यरूपिविभेदतः ॥२६३॥ त एव ध्यानभेदाः स्युः, ध्यानभेदेषु चर्च्यते । धारणाशब्दसाम्येन, योगस्वरूपधारणे ॥२६४॥ विशेषरूपता काचित्प्रसङ्गन प्रदर्शिता। योगविंशतिग्रन्थात्तु , नातोऽप्रस्तुतरूपता ॥२६॥ अधुना धारणायोगं, प्रकृत्यमनुसृत्य वै। अवशिष्टं प्रतन्येत, अष्टदृष्टित्वयोगतः ॥२६६॥