________________
[४६०]
योगअत्यन्ताधिकप्रीतिस्तु, यदनुष्ठानके भवेत् । प्रीत्यनुष्ठानकापेक्षा, भक्त्यनुष्ठानके सदा ॥२७॥ आलम्बनपदार्थेषु, विशेषादरबुद्धितः । प्रत्येकं तद्धि व्यापारः, अधिकशुद्धतां भजेत् २८०॥ यथा मातास्वभार्याणां, भोजनवस्त्रकादिना । पालने समरूपेऽपि, भावेन भिन्नता मता ॥२८॥ स्वभार्यापालने प्रीतिः, भक्तिः स्वमातृरक्षणे । बाह्यसमेषु सर्वेषु, प्रीतिभक्तौ विशेषता ॥२८२॥ शास्त्रे दृष्टिं परिस्थाप्य, सर्वकार्येषु साधूनाम् । या प्रवृत्तिः शुभाजाता,तदा वचोऽनुष्ठानता ।२८३। यदा संस्कारदृढं भूयात्, प्रवृत्तिकरणे क्षणे । शास्त्रस्मरणकर्त्तव्यस्यावश्यकं न विद्यते ॥२८४॥ यथा चन्दनद्रव्येषु, सुगन्धिस्तु स्वभावजा । तथा संस्कारदायन, धार्मिका नियमाः सदा ।२८॥ जीवनैकरसीभूताः, स्युरसङ्गानुष्ठानजाः । तदधिकारिता ज्ञेया, जिनकल्पिसु साधषु ॥२८६॥ वचनासङ्गरूपायां, क्रियायां स्वल्पभिन्नकम् । शास्त्रप्रेरणतैकत्र, अन्यत्र प्रेरणा न हि ॥२८॥