________________
- प्रदीप
[४८६] तदात्मा स्थानवर्णादि, पूर्वोक्तयोग एव हि ॥२७॥ यदि पूर्वोक्तयोगेषु, प्रयत्नशीलरूपतः । क्रिया कर्त्तव्यरूपेण, तन्यते शुद्धभावतः ॥२७१॥ तदैव सा क्रिया ज्ञेया, शुद्धशुद्धतरात्मिका । संस्कारपुष्टिताहेतु, सदनुष्ठानतां भजेत् ॥२७२॥ अनुक्रमेण ज्ञातव्या, कर्मक्षयनिमित्तका । सदनुष्ठानभेदानां, दृष्टव्योऽन्तिमयोगके ॥२७३॥ अनालम्बनयोगस्य, समावेशः प्रजायते । प्रीतिभक्तिवचोऽसङ्गसम्बन्धाच्चतुर्विधम् ॥२७४॥ चतुःश्वसङ्गताख्यं तु, अनालम्बनयोगके । समाविष्टं प्रज्ञातव्यं, योगदर्शनतः सदा ॥२७॥ भावशुद्धित्वयोगेन, चैकानुष्ठानकं मतम् । चतुर्भेदस्वरूपेण, परिणमति सर्वदा ॥२७६॥ एवमेवानुष्ठानं च, चतूरूपेण जायते । प्रीतिभत्त्यादिकं सर्व, तद्रूपेण प्रपद्यते ॥२७७॥ सर्व कार्य परित्यज्य, तक्रियार्थ प्रयत्नकम् । तन्यते यत्र तत्रैव, प्रीत्यनुष्ठानकं भवेत् ॥२७॥
१ तारतम्येन